श्रीकृष्णाष्टकम्

श्रियाश्लिष्टो विष्णु: स्थिरचरवपुर्वेदविषयो

धियां साक्षी शुद्धो हरिरसुरहन्ताब्जनयन:

गदी शंखी चक्री विमलवनमाली स्थिररुचि:

शरण्यो लोकशो मम भवतु कृष्णोऽक्षिविषय: 1

यत: सर्वं जातं वियदनिलमुख्यं जगदिदं

स्थितौ नि:शेषं योऽवति निजसुखांशेन मधुहा।

लये सर्वं स्वस्मिन् हरति कलया यस्तु स विभु: ।।

शरण्यो लोकशो मम भवतु कृष्णोऽक्षिविषय: 2

असूनायम्यादौ यमनियममुख्यै: सुकरणैर्निरुध्येदं

चित्तं हृदि विलयमानीय सकलम् ।

यमीड्यं पश्यन्ति प्रवरमतयो मायिनमसौ ।

शरण्यो लोकशो मम भवतु कृष्णोऽक्षिविषय: 3

पृथिव्यां तिष्ठन् यो यमयति महीं वेद न धरा

यमित्यादौ वेदो वदति जगतामीशममलमम् ।

नियन्तारं ध्येयं मुनिसुरनृणां मोक्षदमसौ ।

शरण्यो लोकशो मम भवतु कृष्णोऽक्षिविषय: 4

महेन्द्रादिर्देवो जयति दितिजान् यस्य बलतो

न कस्य स्वातन्त्र्यं क्वचिदपि कृतौ यत्कृतिमृते।

कवित्वादेर्गर्वं परिहरति योऽसौ विजयिन:

शरण्यो लोकशो मम भवतु कृष्णोऽक्षिविषय: 5

विना यस्य ध्यानं व्रजति पशुतां सूकरमुखां

विना यस्य ज्ञानं जनिमृतिभयं याति जनता ।

विना यस्य स्मृत्या कृमिशतजनिं याति स विभु:

शरण्यो लोकशो मम भवतु कृष्णोऽक्षिविषय: 6

नरातंकोत्तंक: शरणशरणो भ्रान्तिहरणो

घनश्याम: वामो व्रजशिशुवयसोऽर्जुनसख:

स्वयम्भूर्भूतानां जनक उचिताचारसुखद:

शरण्यो लोकशो मम भवतु कृष्णोऽक्षिविषय: 7

यदा धर्मग्लानिर्भवति जगतां क्षोभकरणी

तदा लोकस्वामी प्रकटितवपु: सेतुधृगज:

सतां धाता स्वच्छो निगमगणगीतो व्रजपति:

शरण्यो लोकशो मम भवतु कृष्णोऽक्षिविषय: 8

इति हरिरखिलात्माराधित: शंकरेण

श्रुतिविशदगुणोsसौ मातृमोक्षार्थमाद्य: ।

यतिवरनिकटे श्रीयुक्त आविर्बभूव

स्वगुणवृत उदार: शंखचक्राब्जहस्त: ॥9॥

॥इति श्री कृष्णाष्टकम्॥

सम्पूर्ण सूची के लिए यहाँ क्लिक करें 

 

 


No comments: