श्रियाश्लिष्टो विष्णु: स्थिरचरवपुर्वेदविषयो
धियां साक्षी शुद्धो हरिरसुरहन्ताब्जनयन: ।
गदी शंखी चक्री विमलवनमाली स्थिररुचि:
शरण्यो लोकशो मम भवतु कृष्णोऽक्षिविषय: ॥1॥
यत: सर्वं जातं वियदनिलमुख्यं जगदिदं
स्थितौ नि:शेषं योऽवति निजसुखांशेन मधुहा।
लये सर्वं स्वस्मिन् हरति कलया यस्तु स विभु: ।।
शरण्यो लोकशो मम भवतु कृष्णोऽक्षिविषय: ॥2॥
असूनायम्यादौ यमनियममुख्यै: सुकरणैर्निरुध्येदं
चित्तं हृदि विलयमानीय सकलम् ।
यमीड्यं पश्यन्ति प्रवरमतयो मायिनमसौ ।
शरण्यो लोकशो मम भवतु कृष्णोऽक्षिविषय: ॥3॥
पृथिव्यां तिष्ठन् यो यमयति महीं वेद न धरा
यमित्यादौ वेदो वदति जगतामीशममलमम् ।
नियन्तारं ध्येयं मुनिसुरनृणां मोक्षदमसौ ।
शरण्यो लोकशो मम भवतु कृष्णोऽक्षिविषय: ॥4॥
महेन्द्रादिर्देवो जयति दितिजान् यस्य बलतो
न कस्य स्वातन्त्र्यं क्वचिदपि कृतौ यत्कृतिमृते।
कवित्वादेर्गर्वं परिहरति योऽसौ विजयिन: ।
शरण्यो लोकशो मम भवतु कृष्णोऽक्षिविषय: ॥5॥
विना यस्य ध्यानं व्रजति पशुतां सूकरमुखां
विना यस्य ज्ञानं जनिमृतिभयं याति जनता ।
विना यस्य स्मृत्या कृमिशतजनिं याति स विभु: ।
शरण्यो लोकशो मम भवतु कृष्णोऽक्षिविषय: ॥6॥
नरातंकोत्तंक: शरणशरणो भ्रान्तिहरणो
घनश्याम: वामो व्रजशिशुवयसोऽर्जुनसख: ।
स्वयम्भूर्भूतानां जनक उचिताचारसुखद: ।
शरण्यो लोकशो मम भवतु कृष्णोऽक्षिविषय: ॥7॥
यदा धर्मग्लानिर्भवति जगतां क्षोभकरणी
तदा लोकस्वामी प्रकटितवपु: सेतुधृगज: ।
सतां धाता स्वच्छो निगमगणगीतो व्रजपति: ।
शरण्यो लोकशो मम भवतु कृष्णोऽक्षिविषय: ॥8॥
इति हरिरखिलात्माराधित: शंकरेण
श्रुतिविशदगुणोsसौ मातृमोक्षार्थमाद्य: ।
यतिवरनिकटे श्रीयुक्त आविर्बभूव
स्वगुणवृत उदार: शंखचक्राब्जहस्त: ॥9॥
॥इति श्री कृष्णाष्टकम्॥
सम्पूर्ण सूची के लिए यहाँ क्लिक करें
No comments:
Post a Comment